श्री सत्यनारायण पूजा विधी Shri Satyanarayan Puja Vidhi 

विप्राय दक्षिणां दद्यात्कथां श्रुत्वा जनै: सह ॥ ततश्च बुंधुभि: सार्धं विप्रांश्च प्रतिभोजयेत्‌ ॥२२॥

सपादं भक्षयेद्बक्त्या नृत्यगीतादिकं चरेत्॥ ततश्च स्वगृहं गच्छेत्सत्यनारायणं स्मरन्॥२३॥

एवं कृते मनुष्याणां वांछासिद्धिर्भवेद्‌ध्रुवम्॥ विशेषत: कलियुगे लघूपायोऽस्ति भूतले ॥२४॥

इति श्रीस्कंदपुराणे रेवाखंडे सत्यनारायणकथायां प्रथमोऽध्याय: ॥१॥

श्रीभगवाननुवाच ॥ अथान्यत्संप्रवक्ष्यामि कृतं येन पुरा द्विज ॥ कश्चित्काशीपुरे रम्ये ह्यासीद्विप्रोऽतिनिर्धन: ॥१॥

क्षुत्तृड्‌भ्यां व्याकुलो भूत्वा नित्यं बभ्राम भूतले ॥ दु:खितं ब्राह्मनं दृष्ट्‌वा भगवान्ब्राह्मणप्रिय: ॥२॥

वृद्धब्राह्मणरूपस्तं पप्रच्छ द्विजमादरात्। किमर्थं भ्रमसे विप्र महीं नित्यं सुदु:खित: ॥३॥

तत्सर्वं श्रोतुमिच्छामि कथ्यतां द्विजसत्तम ॥ ब्राह्मण उवाच ॥ ब्राह्मणोऽतिदरिद्रोऽहं भिक्षार्थं वै भ्रमे महीम्‌ ॥४॥

उपायं यदि जानसि कृपया कथय प्रभो । वृद्धब्राह्मण उवाच ॥ सत्यनारायणो विष्णुवांछितार्थफलप्रद: ॥५॥

तस्य त्वं पूजनं विप्र कुरुष्व व्रतमुत्तमम्॥ यत्कृत्वा सर्वदु:खेभ्यो मुक्तो भवति मानव: ॥६॥

विधानं च व्रतस्यापि विप्रायाभाष्य यत्‍नत: ॥ सत्यनारायणो वृद्धस्तत्रैवांतरधीयत ॥७॥

तद्‍व्रतं संकारिष्यामि यदुक्तं ब्राह्मणेन वै । इति संचिंत्य विप्रोऽसौ रात्रौ निद्रां न लब्धवान्॥८॥

तत: प्रात: समुत्थाय सत्यनारायणव्रतम्॥ करिष्य इति संकल्प्य भिक्षार्थमगमद्‌द्विज: ॥९॥

तस्मिन्नेव दिने विप्र: प्रचुरं द्र्व्यमाप्तवान्॥ तेनैव बंधुभि: सार्धं सत्यस्य व्रतमाचरत्॥१०॥

सर्वंदु:खविनिर्मुक्त: सर्वसंपत्समन्वित: ॥ बभूव स द्विजश्रेष्ठो व्रतस्यास्य प्रभावत: ॥११॥

तत: प्रभृति कालं च मासिमासि व्रतं कृतम्॥ एवं नारायणस्येदं व्रतं कृत्वा द्विजोत्तम: ॥ सर्वपापाविनिर्मुक्‍ती दुर्लभं मोक्षमाप्तवान्॥१२॥

व्रतमस्य यदाविप्र: पृथिव्यां संकरिष्यति ॥ तदैव सर्वदु:खं च मनुजस्य विनश्यति ॥१३॥

एवं नारायणेनोक्तं नारदाय महात्मने ॥ मया तत्कथितं विप्रा: किमन्यत्कथयामि व: ॥१४॥

ऋषय ऊचु: ॥ तस्माद्विप्राच्छुतं केन पृथिव्यां चरितं मुने ॥ तत्सर्वं श्रोतुमिच्छाम: श्रद्धाऽस्माकं प्रजायते ॥१५॥

सूत उवाच ॥ शृणध्वं मुनय: सर्वे व्रतं येन कृतं भुवि । एकदा स द्बिजवरो यथाविभव विस्तरै: ॥१६॥

बंधुभि: स्वजनै: सार्धं व्रतं कर्तुं समुद्यत: ॥ एतस्मिन्नंतरे काले काष्ठक्रेता समागमत्॥१७॥

बहि:काष्ठं च संस्थाप्य विप्रस्य गृहमामयौ ॥ तृष्णया पीडितात्मा च दृष्ट्‌वा विप्रं कृतव्रतम्॥१८॥

प्रणिपत्य द्विजं प्राह किमिद क्रियते त्वया ॥ कृते किं फलमाप्नोति विस्तराद्वद मे प्रभो ॥ १९ ॥

विप्र उवाच ॥ सत्यनारायणस्येदं व्रतं सर्वेप्सितप्रदम्॥ तस्य प्रसादान्मे सर्वं धनधान्यादिकं महत्॥२०॥

तस्मादेतद्व्रतं ज्ञात्वा काष्ठक्रेताऽतिहर्षित: ॥ पपौ जलं प्रसादं च भुक्त्वा स नगरं ययो ॥२१॥

सत्यनारायणं देव मनसा इत्यचिंतयत्॥ काष्ठं विक्रयतो ग्रामे प्राप्यते चाद्य यद्धनम्॥२२॥

तेनैव सत्यदेवस्य करिष्ये व्रतमुत्तमम्॥ इति संचिंत्यं मनसा काष्ठं धृत्वा तु मस्तके ॥२३॥

जगाम नगरे रम्ये धनिनां यत्र संस्थिति: ॥ तद्दिने काष्ठमूल्यं च द्बिगुणं प्राप्तवानसौ ॥२४॥

तत: प्रसन्नह्रदय: सुपक्वं कदलीफलम्।। शर्करां घृतदुग्धे च गोधूमस्य च चूर्णकम्॥२५॥

कृत्वैकत्र सपादं च गृहीत्वा स्वगृहं ययौ ॥ ततो बंधून्‌ समाहूय चकार विधिना व्रतम्॥२६॥

तदव्रतस्य प्रभावेण धनपुत्रान्वितोऽभवत्॥ इहलोके सुखं भुक्त्वा चांते सत्यपुरं ययौ ॥२७॥

इति श्रीस्कंदपुराणे रेवाखंडे श्रीसत्यनारायणव्रतकथायां द्वितीयोऽध्याय: ॥२८॥

सूत उवाच ॥ पुनरग्रे प्रवक्षयामि शृणुध्वं मुनिसत्तमा: ॥ पुरा चोल्कामुखो नाम नृपश्चासीन्महीपति: ॥१॥

जितेंद्रिय: सत्यवादी ययौ देवालयं प्रति ॥ दिने दिने धनं दत्त्वा द्विजान्संतोषयन्सुधी: ॥२॥

भार्या तस्य प्रमुग्धा च सरोजवदना सती ॥ भद्रशीला नदीतीरे सत्यस्य व्रतमाचरत्॥३॥

एतस्मिन्नंतरे काले साधुरेक: समागत: ॥ वाणिज्यार्थं बहुधनैरनेकै: परिपूरित: ॥४॥

नावं संस्थाप्य तत्तीरे जगाम नृपतिं प्रति ॥ दृष्ट्‌वा स व्रतिनं भूपं पप्रच्छं विनयान्वित: ॥५॥

साधुरुवाच ॥ किमिंद कुरुषे राजन्भक्तियुक्तेन चेतसा ॥ प्रकाशं कुरु तत्सर्वं श्रोतुमिच्छामि सांप्रतम्॥६॥

राजोवाच ॥ पूजनं क्रियते साधो विष्णोरतुलतेजस: ॥ व्रतं च स्वजनै: सार्धं पुत्राद्यावाप्तिकाम्यया ॥७॥

भूपस्य वचनं श्रुत्वा साधु: प्रोवाच सादरम्॥ सर्वं कथय मे राजन् करिष्येऽहं तवोदितम्॥८॥

ममापि संततिर्नास्ति एतस्माज्जायते ध्रुवम्॥ ततो निवृत्य वाणिज्यात्सानंदो गृहमागत: ॥९॥

भार्यायै कथितं सर्वं व्रतं संततिदायकम्॥ तदा व्रतं करिष्यामि यदा मे संसतिर्भवेत्॥१०॥

इति लीलावती प्राह पत्‍नीं साधु: ससत्तम: ॥ एकस्मिन्दिवसे तस्य भार्या लीलावती सती ॥११॥

भर्तृयुक्तानंदचित्ताऽभवद्धर्मपरयणा ॥ गर्भिणी साऽभवत्तस्य भार्या सत्यप्रसादत: ॥१२॥

दशमे मासि वै तस्य: कन्यरत्‍नमजायत ॥ दिने दिने सा ववृधे शुक्लपक्षे यथा शशी ॥१३॥

नाम्ना कलावती चेंति तन्नामकरणं कृतम्॥ ततो लीलावती प्राह स्वामिनं मधुर वच: ॥१४॥

न करोषि किमर्थवै पुरा संकल्पितं व्रतम्॥ साधुरुवाच ॥ विवाहसमये त्वस्या: करिष्यामि व्रतं प्रिये ॥१५॥

इति भार्यां समाश्वास्य जगाम नगरं प्रति ।। तत: कलावती कन्या विवृधे पितृवेश्मनि ॥१६॥

दृष्ट्‌वा कन्यां तत: साधुर्नगरे सखिभि: सह ॥ मंत्रयित्वा द्रुतं दूतं प्रेषयामास धर्मवित्॥१७॥

विवाहार्थं च कन्याया वरं श्रेष्ठं विचारय ॥ तेनाज्ञप्तश्च दुतोऽसौ कांचनं नगरं ययौ ॥१८॥

तस्मादेकं वणिक्पुत्रं समादायागतो हि स: ॥ दृष्ट्‌वा तु सुंदरं बालं वणिक्पुत्रं गुणान्वितम्॥१९॥

ज्ञातिभिर्बंधुभि: सार्धं परितुष्टेन चेतसा ॥ दत्तवान्साधु: पुत्राय कन्यां विधिविधानत: ॥२०॥

ततोऽभाग्यवशात्तेन विस्मृतं व्रतमुत्तमम्, विवाहसमये तस्यास्तेन रुष्टोऽभवत्प्रभु: ॥२१॥

तत: कालेन नियतो निजकर्मविशारद: ॥ वाणिज्यार्थं गत: शीघ्रं जामातृसहितो वणिक्॥२२॥

रत्‍नसारपुरे रम्ये गत्वा सिंधुसमीपत: ॥ वाणीज्यमकरोत्साधुर्जामात्रा श्रीमता सह ॥२३॥

तौ गतौ नगरे रम्ये चंद्रकेतोर्नृपस्य च ॥ एतस्मिन्नैव काले तु सत्यनारायण: प्रभु: ॥२४॥

भ्रष्टप्रतिज्ञामालोक्य शापं तस्मै प्रदत्तवान्‌ ॥ दारुणं कठिनं चास्य महद्‌दु:खं भविष्यति ॥२५॥

एकस्मिन्दिवसे राज्ञो धनमादाय तस्कर: ॥ तत्रैव चागतश्चौरो वणिजौ यत्र संस्थितौ ॥२६॥

तत्पश्चाद्धवकान्दूतान्दृष्ट्‍वा भीतेन चेतसा ॥ धनं संस्थाप्य तत्रैव स तु शीघ्रमलक्षित: ॥२७॥

ततो दूता: समायाता यत्रास्त्रे सज्जनो वणिक्‌ ॥ दृष्ट्‍वा नृपधनं तत्र बद्‌ध्वा दूतैर्वणिक्सुतौ ॥२८॥

हर्षेण धावमानाश्च ऊनुर्नृपसमीपत: ॥ तस्करौ द्वौ समानीतौ विलोक्याज्ञापय प्रभो ॥२९॥

राज्ञाज्ञप्तास्तत: शीघ्रं दृढं बद्‌ध्वा तु तावुभौ ॥ स्थापितौ द्वौ महादुर्गे कारागारेऽविचारत: ॥३२॥

मायया सत्यदेवस्य न श्रुतं कैस्तयोर्वच: ॥ अतस्तयोर्वनं राज्ञा गृहीतं चंद्रकेतुना ॥३१॥

तच्छापाच्च गृहे तस्य भार्या चैवातिदु:खिता ॥ चौरेणापह्रतं सर्वं गृहे यच्च स्थितं धनम्॥३२॥

आधिव्याधिसमायुक्ता क्षुत्पिपासादिदु:खिता ॥ अन्नचिंतापर भूत्वा बभ्राम च गृहे गृहे ॥३३॥

कलावती तु कन्यापि बभ्राम प्रतिवासरम्॥ एकस्मिन्दिवसे जाता क्षुधार्ता द्विजमंदिरम्॥ गत्वाऽपश्यद्व्रतं तत्र सत्यनारायणस्य च ॥३४॥

उपविश्य कथां श्रुत्वा वरं प्रार्थितवत्यपि ॥ प्रसादभक्षणं कृत्वा ययौ रात्रौ गृहं प्रति ॥३५॥

माता कलावती कन्यां पृच्छयामास प्रेमत: ॥ पुत्रिं रात्रौ स्थिता कुत्रं किं ते मनसि वर्तते ॥३६॥

कन्या कलावती प्राह मातरं प्रति सत्वरम्॥ द्विजालये व्रतं मातर्दृष्टां वांछितसिद्धिदम्॥३७॥

तच्छुत्वा कन्यकावाक्य व्रतं कर्तुं समुद्यता ॥ सा मुद्रा तु वणिग्भार्या सत्यनारायणस्य च ॥३८॥

व्रतं चक्रे सैव साध्वी बंधुभि” स्वजनै: सह ॥ भर्तृजमातरौ क्षिप्रमागच्छेतां स्वमाश्रमम्‌ ॥ ३९॥

अपराधं च मे भर्तार्जामातु: क्षन्तुमर्हसि ॥ इति दिव्यं वरं वव्रे सत्यदेवं पुन: पुन: ॥ व्रतेनानेन तुष्टोऽसौ सत्यनारायण: प्रभु: ॥४०॥

दर्शयामास स्वप्नं हि चंद्रकेतुं नृपोत्तमम्॥ बंदिनौ मोचय प्रातर्वणिजौ नृपसत्तम ॥४१॥

देय धनं च तत्सर्वं गृहीतं यत्त्वयाऽधुना ॥ नो चेत्त्वां नाशयिष्यामि सराज्यधनपुत्रकम्॥४२॥

एवमाभाष्य रामानं ध्यानगम्योऽभवत्प्रभु: ॥ तत: प्रभात समये राजा च स्वजनौ: सह ॥४३॥

उपविश्य सभामध्ये प्राह स्वप्नं जनं प्रति ॥ बद्धौ महाजनौ शीघ्रं मोचयध्वं वणिक्सुतौ ॥४४॥

इति राज्ञो यच: श्रुत्वा मोचयित्वा महाजनौ ॥ समानीय नृपस्याग्रे प्राहुस्ते विनयान्विता: ॥४५॥

आनीतौ द्वौ वणिक्पुत्रौ मुक्‍तौ निगडबंधनात्॥ ततो महाजनौ नत्वा चंद्रकेतुं नृपोत्तमम्॥४६॥

स्मरंतौ पूर्ववृत्तान्तं मोचतुर्भयविव्हलौ ॥ राजा वणिक्सुतौ वीक्ष्य वच: प्रोवाच सादरम्॥४७॥

दैवत्प्राप्तं महद्‌दु:खनिदानीं नास्ति वै भयम्॥ सदा निगडसंत्यागं क्षौरकर्माद्यकारयत्॥४८॥

वस्त्रालंकरण दत्वा परितोष्य नृपश्च तौ । पुरस्कृत्य वणिक्पुत्रौ वचसाऽतोषयद्भृशम्॥४९॥

पुरा ह्रतं तु यद्‌द्रव्यं द्विगुणीकृत्य दत्तवान् ॥ प्रोवाच तौ ततो राजा गच्छ साधो निजाश्रमम्‌ ॥५०॥

राजानं प्रणिपत्याह गंतव्यं त्वप्रसादत: ॥५१॥

इति श्रीस्कंदपुराणे रेवाखंडे सत्यनारायणव्रतकथायां तृतीयोऽध्याय: ॥३॥

सूत उवाच ॥ यात्रां तु कृतवान्‍साधुर्मंगलायनपूर्विकाम्॥ ब्राह्मणाय धनं दत्त्वा तदा तु नगरं ययौ ॥१॥

कियद्दुरे गते साधौ सत्यनारायण: प्रभु: ॥ जिज्ञासां कृतवान्साधो किमस्ति तव नौस्थितम्॥२॥

ततो महाजनौ मत्तौ हेलया च प्रहस्य वै ॥ कथं पृच्छसि भॊ दंडिन्मुद्रां नेतु किमिच्छसि ॥३॥

लतापत्रादिकं चैव वर्तते तरणौ मम ॥ निष्ठुरं च वच: श्रुत्वा सत्यं भवतु ते वच: ॥४॥

एवमुक्त्वा गत: शीघ्रं दंडी तस्य समीपत: ॥ कियद्दॄरे ततो गत्वा स्थित: सिंधुसमीपत: ॥५॥

गते दंडिनि साधुश्च कृतनित्यक्रियस्तदा ॥ उत्थितां तरणीं दृष्ट्‍वा विस्मयं परमं ययौ ॥६॥

दृष्ट्‍वा लतादिकं चैव मूर्च्छितां न्यपतद्भुवि ॥ लब्धसंज्ञो वणिक्पुत्रस्ततश्चिंतान्वितोऽभवत्॥७॥

तदा तु दुहित:कांतो वचनं चेदमब्रवीत्॥ किमर्थं क्रियते शोक:शापो दत्तश्च दंडिना ॥८॥

शक्यते तेन सर्वं हि कर्तुं चात्र न संशय: ॥ अतस्तच्छरणं यामो वांछितार्थो भविष्यति ॥९॥

जामातुर्वचनं श्रुवा तत्सकाशं गतस्तदा ॥ दृष्ट्वा च दंडिनं भक्त्या नत्वा प्रोवाच सादरम्॥१०॥

क्षमस्व चापराधं मे यदुक्तं तव सन्निधौ । एवं पुन: पुनर्तत्वा महाशोकाकुलोऽभवेत्॥११॥

प्रोवाच वचनं दंडी विलपंतं विलोक्य च ॥ मा रोदी: शृणु मद्वाक्यं मम पूजाबहिर्मुख: ॥१२॥

ममाज्ञया च दुर्बुद्धे लब्धं दु:खं मुहुर्मुहु: ॥ तच्छुत्वा भगवद्वाक्यं स्तुतिं कर्तुं समुद्यत: ॥१३॥

साधुरुवाच ॥ त्वन्मायामोहिता: सर्वे ब्रह्माद्यास्त्रिदिवौकस: ॥ न जानंति गुणान्रूपं तवाश्चर्यमिदं प्रभॊ ॥१४॥

मूढोऽहं त्वां कथं जाने मोहितस्तव मायया ॥ प्रसीद पूजयिष्यामि यथाविभवविस्तरै: ॥१५॥

पुरावित्तं च तत्सर्वं त्राहि मां शरणागतम्॥ श्रुत्वा भक्तियुतं वाक्यं परितुष्टो जनार्दन: ॥१६॥

वरं च वांच्छितं दत्वा तत्रैवांतर्दधे हरि: ॥ ततो नावं समारुह्य दृष्ट्वा वित्तप्रपूरिताम्॥१७॥

कृपया सत्यदेवस्य सफलं वांछितं मम । इत्युक्त्वा स्वजनै: सार्धं पूजां कृत्वा यथाविधि ॥१८॥

हर्षेण चाभवत्पूर्णं सत्यदेवप्रसादत: । नावं संयोज्य यत्‍नेन स्वदेशगमन कृतम्॥१९॥

साधुर्जामातरं प्राह पश्य रत्‍नपुरीं मम ॥ दूतं च प्रेषयामास निजवित्तस्य रक्षकम्॥२०॥

दूतोऽसौ नगरं गत्वा साधुभार्या विलोक्य च ॥ प्रोवाच वांच्छितं वाक्य नत्वा बद्धंजलिस्तदा ॥२१॥

निकटे नगरस्यैव जामात्रा सहितो वणिक्॥ आगतो बंधुवर्गेश्च वित्तैश्च बहुभूर्युत: ॥२२॥

श्रुत्वा दूतमुखाद्वाक्यं महाहर्षवती सती ॥ सत्यंपूजां कुरुष्वेति प्रोवाच तनुजां प्रति ॥

व्रजामि शीघ्रमागच्छ साधुसंदर्शनाय च ॥२३॥

तेन रुष्ट: सत्यदेवो भर्तारं तरणीं तथा । संह्रत्य च धनै: सार्धं जले तस्यावमज्जयत्॥२५॥

तत: कलावती कन्या न विलोक्य निजं पतिम्॥ शोकेन महता तत्र रुदती चापतद्भुवि ॥२६॥

दृष्ट्वा तथाविधां नावं कन्यां च बहुदु:खिताम्॥२७॥ भीतेन मन्सा साधु: किमाश्चर्यमिदं भवेत्॥

चिंत्यमानाश्च ते सर्वे बभूवुस्तरिवाहका: ॥२८॥

ततो लीलावतीं कन्यां दृष्ट्वा सा विह्वालाऽभवत्। विलला पातिदु:खेन भर्तारं चेदमब्रवीत्॥२९॥

इदानीं नौकया सार्धं कथं सोऽभूदलक्षित: ॥ न जाने कस्य देवस्य हेलया चैव सा ह्रता ॥३०॥

सत्यदेवस्य माहात्म्य ज्ञातुं वा केन शक्यते ॥ इत्युक्त्वा विललापैव ततस्श्च स्वजनै: सह ॥३१॥

ततो लीलावती कन्यां क्रोडे कृत्वा रुरोद ह ॥३२॥

तत: कलावती कन्या नष्टे स्वामिनि दु:खिता ॥ गृहीत्वा पादुके तस्यानुगंतुं च मनो दधे ॥३३॥

कन्यायाश्चतिरं दृष्टवा सभार्य: सज्जनो वणिक्॥ अतिशोकेन संतप्त श्चिंतयामासधर्मवित् ॥ ह्रतं वा सत्यदेवेन भ्रांतोऽहं सत्यमायया ॥३४॥

सत्यपूजां करिष्यामि यथाविभवविस्तरै: ॥ इति सर्वान्समाहूय कथयित्वा मनोरथम्॥ ३५ ॥

नत्वा च दंडवद्भूमौ सत्यदेव पुन:पुन: ॥ ततस्तुष्ट: सत्यदेवो दीनानां परिपालक: ॥३६॥

जगाद वचन व्योम्नि कृपया भक्तवत्सल: । त्यक्त्वा प्रसादं ते कन्या पतिं द्रष्टुं समागता ॥ अतोऽदृष्टोऽभवत्तस्या: कन्यकाया: पतिध्रुवम्॥३७॥

गृहं गत्वा प्रसादं च भुक्त्वा साऽऽयाति चेत्पुन: ॥ लब्धभर्त्री सुता साधो भविष्यति न संशय: ॥३८॥

कन्यका तादृशं वाक्यं श्रुत्वा गगनमंडलात्॥ क्षिप्रं तदा गृहं गत्वा प्रसादं च बुभोज सा ॥३९॥

सा पश्चात्पुनरागत्य ददर्श स्वजनं पतिम्॥४०॥

तत: कलावती कन्या जगाद पितरं प्रति ॥ इदानीं च गृहं याहि विलंबं कुरुषे कथम्॥४१॥

तच्छुत्वा कन्यकावाक्यं संतुष्टोऽऽभूद्वणिक्सुत: ॥ पूजनं सत्यदेवस्य कृत्वा विधिविधानत: ॥४२॥

धनैर्बंधुगणै: सार्धं जगाम निजमंदिरम्॥ पौर्णमास्यां च संक्रांतौ कृतवान्सत्यपूजनम्॥४३॥

इहलोके सुखं भुक्त्वा चांते सत्यपुरं ययौ ॥४४॥

इति श्रीस्कंदपुराणे रेवाखंडे सत्यनारायणव्रतकथायां चतुर्थोऽध्याय: ॥

सूत उवाच ॥ अथान्यच्च प्रवक्ष्यामि शृणुध्वं मुनिसत्तमा: ॥ आसीदंगध्वजो राजा प्रजापालतत्पर: ॥१॥

प्रसाद सत्यदेवस्य त्यक्त्वा दु;खमवाप स: ॥ एकदा स वनं गत्वा हत्वा बहुविधान्पशून॥२॥

आगत्य वटमूलं च दृष्ट्वा सत्यस्य पूजनम्॥ गोपा: कुर्वन्ति संतुष्टा भक्तियुक्त: सबांधवा: ॥३॥

राज दृष्ट्वा तु दर्पेण न गत्वा तं ननाम स: ॥ ततो गोपगणा: सर्वे प्रसाद नृपसन्निधौ ॥४॥

संस्थाप्य पुनरागत्य भुक्त्वा सर्वे यथेप्सितम्॥ तत: प्रसादं संत्यज्य राजा दु:खमवाप स: ॥५॥

तस्य पुत्रशतं नष्टं धनधान्यादिकं च यत्॥ सत्यदेवेन तत्सर्वं नाशितं मम निश्चितम्॥ ६ ॥

अतस्तत्रैव गच्छामि यत्र देवस्य पूजनम्॥ मनसा तु विनिश्चित्य ययौ गोपालसंनिधो ॥७॥

ततोऽसौ सत्यदेवस्य पूजां गोपगणै: सह ॥ भक्तिश्रद्धान्वितो भूत्वा चकार विधिना: नृप: ॥८॥

सत्यदेवप्रसादेन धनपुत्रान्वितोऽभवत्। इहलोके सुखं भुक्त्त्वा चांते सत्यपुरं ययौ ॥९॥

य इदं कुरुते सत्यव्रतं परमदुर्लभम्॥ शृणोति च कथां पुण्यां भक्तियुक्त: फलप्रदाम्॥१०॥

धनधान्यादिकं तस्य भवेत्सत्यप्रसादत: ॥ दरिद्रो लभते वित्तं बद्धो मुच्येत बंधनात्॥११॥

भीतो भयात्प्रमुच्यते सत्यमेव व संशय: ॥ ईप्सितं च फलं भुक्त्वा चांते सत्यपुरं व्रजेत्॥१२॥

इति व: कथितं विप्रा: सत्यनारायण व्रतम्॥ यत्कृत्वा सर्वदु:खेभ्यो मुक्तो भवति मानव:॥१३॥

विशेषत: कलियुगे-सत्यपुजा फलप्रदा ॥ केचित्कालं वदिष्यंति सत्यमीशं तमेव च ॥ सत्यनारायणं केचित्सत्यदेवं तथापरे ॥१४॥

नानारूपधरो भुत्वा सर्वेषामीप्सितप्रद: ॥ भविष्यति कलौ सत्यव्रतरूपी सनातन: ॥१५॥

य इदं पठते नित्यं शृणोति मुनिसत्तमा: ॥ सत्यं नश्यंति पापानि सत्यदेवप्रसादत: ॥१६॥

इति श्रीस्कंदंपुराणे रेवाखंडे सत्यनारायणव्रतकथायां पंचमोऽध्यायां ॥